पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पश्चमः खण्डः


अमेरिलान्दं पश्चानुगानम् । इरान्नं वा ॥ ६.३.५.१ ॥

अग्निरसि जन्मना जातवेदाः (सा. ६१३) इत्यादिषूत्पन्नम् अमे- रिलान्दम् । [अग्नेरिरामं] नामधेयान्तरम् । पश्चानुगानं पञ्चभिरनुगानैरुपेतम् । हाउ (त्रिः) ऊ । हुऊ इत्यादिकम् इडा (आ. गा. ५. ५. २०७) इत्यन्त- माय स्तोभमात्रम् अनुगानम् । हाउ (त्रिः) वा अग्निरसिजन्मनाजातवेदाः ( आ. गा. ५. ५. २०८) इति [द्वितीयादिकं] द्वितीयम् । [पात्यग्निर्विपो अग्रं पदवेः (सा. ६१४) इत्यत्रक साम ।] हाउ (त्रिः) पात्यग्निर्विपोअग्रं- पदंवेः (आ. गा. ५. ५. २०९) इत्यादि (द्वितीयक्रुष्टादिकं] तृतीयम् । [इन्द्रंनर (सा. ३१८) इत्यत्रैक साम ।] इया इया इत्युपक्रान्तम् इन्द्रनरो (आ. गा. ५. ५. २१०) इति [क्रुष्टादिकं] तुरीयम् । [भ्राजन्त्यग्ने समि- धान (सा. ६१५) इत्यत्रैक साम । ] भ्राजाऔहोहोहाइ (आ. गा.५.५.२११) इति [द्वितीयक्रुष्टादिकं] पञ्चमम् । एवं] पश्चानुगानम् । तथा च ब्राह्मणम् - एतद्वै साक्षादग्नं यदिलान्दमिरानं वा (तां. ब्रा. ५. ३.२) इति ॥ १॥

त्रीणि देवानां व्रतानि । देवस्य वा। रौद्रे पूर्वे । वैश्वदेवं तृतीयम् । वैश्वदेवे वा पूर्वे । रौद्रं तृतीयम् ॥ ६.३.५.२॥

अधिपते (स्तोभगानम्) इत्यादिषु सामत्रयमुत्पन्नम् । अधिप । ताइ इत्यादि मन्युनावृतहासूर्येणखराड (आ. गा. ५. ५. २१२) इति क्रुष्ट- द्वितीयादिकमाद्यम् । अधिप । ताइ इत्यादि नमउत्ततिम्यश्चोत्तन्वानेभ्यश्च (आ. गा. ५. ५. २१३) इति क्रुष्टद्वितीयादिकं द्वितीयम् । अधिप । ताइ इत्यादि नमोनाय (आ. गा. ५. ५. २१४) इति क्रुष्टद्वितीयादिकं तृतीयम् | एतानि त्रीणि देवानां व्रतानि । अथवा देवस्य व्रतानि । यद्वा पूर्वे आये द्वे रौद्रे रुद्रदेवत्ये । तृतीयं वैश्वदेवम् । अथवा पूर्व वैश्वदेवे । तृतीय रौद्रम् ॥ २॥