पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० आयब्राह्मणम्


युग्यं च दशस्तोभम् ॥ ६.३.४.५॥

इन्द्र नरः (सा. ३१८) इत्यत्रै साम । हाउ (त्रिः) ओहा इत्यादि इन्द्रन्नरो (आ. गा. ४.४.२०२) इति द्वितीयतृतीयादिकं दशस्तोम दशभिः स्तोभैरुपेतं युग्यनामधेयम् । हाउ इत्यादि त्रित्वविशिष्टा वय इत्यन्ता दश स्तोभाः ॥ ५॥

इन्द्रस्य च वार्त्रघ्नम् ॥ ६.३.४.६॥

इन्द्रस्य नु वीर्याणि प्रवोचम् (सा. ६१२) इत्यक साम । वृत्रहत्यायहोइ इत्यादि इन्द्र (आ. गा. ४.४. २०३) इति द्वितीयक्रुष्टादिकम् इन्द्रस्य च वार्बघ्नम् । वृत्रहननसाधनम् ॥ ६ ॥

प्रजापतेश्च अष्टानिधनम् ॥ ६.३.४.७॥

सत्यमित्था वृषेदसि (सा. २६३) इत्यतैक साम । अभिप्रना इत्यादि सत्यमित्था (आ. गा. ४. ४. २०४) इति द्वितीयक्रुष्टादिकं प्रजा- पतेश्चाष्टानिधनम् अष्टभिनिधनैरुपेतमेतत्संज्ञं साम । असिप्राणए [असि] इत्यादि प्रथमम् । इडांगच्छ इत्यादिकं द्वितीयम् । असिचक्षुरेअसि [इत्यादिकं] तृतीयम् । अन्तरिक्षंगच्छनाकेविभाहि [इत्यादिकं] चतुर्थम् । असिश्रोत्रमेअसि [इत्यादिकं] पञ्चमम् । स्वर्गच्छज्योतिर्गच्छ [इत्यादिकं] षष्ठम् असिज्योति [ रेअसि इत्यादिकं सप्तमम् ।] अतिज्योतिर्विभाह्ये- अति इत्यादिकमन्तिमम् । एनैनिधनैरुपेतमित्यर्थः ॥ ७ ॥

इन्द्रस्य राजनरौहिणे द्वे ॥ ६.३.४.८॥

इन्द्रं नर (सा. ३१८) इत्यत्र सामद्वयम् । हिम् (त्रिः) हो (त्रिः) इत्यादि इन्द्रनरो (आ. गा. ४. ४. २०५) इति कुष्टतृतीयादिकम् । हाउ (त्रिः)