पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः


इन्द्रस्य संजयम् ॥६.३.४.१॥

इन्द्रं नरः (सा. ३१८) इत्यत्रैक साम । हाउ (त्रिः) विश्वा- धनानि इत्यादि इन्द्रंनरो (आ. गा. ४.४.१९७) इति द्वितीयादिकम् इन्द्रस्य सजंयनामकम् । अत्र ब्राह्मणम् सजयं भवति । देवाश्च वा असुराश्च समदधत इत्यादि । ते देवा असुरान् संजयेन समजयन् । यत्समजयंस्तस्मात्संजयम् (तां. बा. १३.६.६-७) इति ॥ १ ॥

अगस्त्यस्य यशः ॥६.३.४.२॥

यशो मा द्यावापृथिवी (सा. ६११) इत्यत्रैक साम । हाउ (त्रिः) वा यशोमाद्यावापृथिवी (आ. गा. ४. ४. १९८) इति द्वितीयादिकम् अगस्त्य॑स्य यशोनामकम् ॥ २ ॥

प्रजापतेस्त्रयस्त्रिंशत्संमितचतुस्त्रिंशत्संमिते द्वे ॥ ६.३.४.३ ॥

प्र वो महे महे वृधो भरध्वम् (सा. ३२८) इत्यत्रैकं साम । ए। प्रावोमाहाइ (आ. गा. ४.४.१९९) इति द्वितीयतृतीयादिकम् । इन्द्रं नरः (सा. ३१८) इत्यत्रैक साम । एयोवा इत्यादि इन्द्रन्नरो (आ. गा. ४.४. २००) इति कुष्टद्वितीयादिकम् । एते द्वे प्रजापतेस्रयस्त्रिंशत्संमितचतुर्खिशत्- संमिते । निधनान्ता एव त्रयस्त्रिंशत्पदयुक्ताः । अपरेण स्तोमेन न विशिष्टाः । चतुस्त्रिंशत्संख्याकास्तैरुपेते सामनी इत्यर्थः ॥ ३ ॥

जमदग्नेर्व्रतम् ॥ ६.३.४.४॥

अभि त्वा शूर नोनुमः (सा. २३३) इत्यत्रैकं साम । हाउ (त्रिः) हहाउ इत्यादि अभित्वाशुरनो (आ. गा. ४. ४. २०१) इति द्वितीयादिकं जमदग्नेर्बतनामकम् ॥ ४ ॥ .