पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः अध्यायः (५) २५


गौतमे द्वे ॥ १.५.९॥

त्वमित्सप्रथा असि (सा. ४२.) इत्यत्र सामद्वयम् । हाउत्वमित्मप्रथाअसिहाउ (ग्राम. २.४.४२.१.) इति मन्द्रादिकं प्रथमम् । त्वंत्यामे (ग्राम. २.४.४२.२.) इति द्वितोयं मन्द्रादिकम् । ते उभे गौतमेन दृष्टे ॥ ९ ॥

अग्नेरायुः ॥ १.५.१० ॥

आ नो अग्ने वयोवृधम् (सा. ४३.) इत्यत्रैक साम । आनो अग्नेवयोवृधम् (ग्राम. २. ४. ४३.१.) इति तृतीयचतुर्थादिकम् अग्नेगयुः । आयुर्वर्धनमेतन्नामकम् ॥ १० ॥

अग्नेर्हरसी द्वे दैर्घश्रवसे द्वे ॥ १.५.११ ॥

यो विश्वा दयो वसु (सा. ४४.) इत्यत्र सामचतुष्टयमुत्पन्नम् । योविश्वादयतेवर (ग्राम. २.४.४४.१.) इति मन्द्रद्वितीयादिकम् । योविश्वादयतेवसुहाउ (ग्राम. २.४.४४.२.) इति मन्द्रादिकम् । एते द्वे अग्नेहरसी एतन्नामके । योविश्वादयतेवस्त्रोहा ओहाए (ग्राम. २.४.४४.३.) इति मन्द्रमन्द्रादिकम् । योविश्वादयतेसए (ग्राम. २.४.४४.४.) इति मन्द्रमन्द्रादिक च । एते [वै] दैर्घश्रवसे दीर्घश्रवसा राजन्यऋषिणा दृष्टे । तथा च ब्राह्मणम्दैर्घश्रवसं भवति। दीर्घश्रवा वै राजन्यऋषिर्योगपरुद्धोऽशनायश्चरन् स एतदैर्घश्रवसमपश्गत् (तां. ब्रा. १५.२४-५) इति ॥ ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे प्रथमाध्याये पञ्चमः खण्डः ॥ ५॥