पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः खण्डः

अग्नेराग्नेये द्वे । गोतमस्य मनाज्ये द्वे ॥१.६.१॥

एना वो अग्निं नमसा (सा. ४५) इत्यस्यां चत्वारि सामानि जातानि । तत्र एनावो अग्निंनामसा (ग्राम. २.५.४५.१) इति मन्द्रचतुर्थादिकं प्रथमम् । ऐनावो अग्निन्नमसाहाउ इति मन्द्रादिकं द्वितीयम् । ते उभे अग्नेः स्वभूते आग्नेये अग्निदेवताके भवतः । अग्निशब्दात् सास्य देवता (पा. ४.२.२४) इत्यर्थे अग्निकलिभ्यां सर्वत्र ढग् वक्तव्यः (वार्तिकं पा. ४.१.८६.) इति ढक् । एनावोअग्निमेनमसा (ग्राम. २.५.४५.३) इति मन्द्रचतुर्थादिकं तृतीयम् । एनावोअग्निन्नमसोर्जोनपावो (ग्राम. २.५.४५.४) इति मन्द्रचतुर्थादिकं तुरीयम् । ते गोतमस्य संबन्धिनी मनाज्ये एतन्नामधेये भवतः ॥ १॥

दैवराजं च ॥ १.६.२॥

शेपे वनेषु मातृषु (सा. ४६) इत्यत्र एकं सामोत्पन्नम् । शेपेवन इषुमातृषू (ग्राम. २.५.४६.१) इति चतुर्थादिकं दैवराजम् देवराजस्य [स्वभूतम् ] । देवराजो नाम ऋषिस्तेन दृष्टम् ॥ २॥