पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

गोतमस्य पौरुमद्ने द्वे । पुरुमद्गस्य वाङ्गिरसस्य ॥ १.५.६ ॥ ।

अग्ने जरितविश्पतिः (सा. ३९.) इत्यत्र सामद्वयम् । अग्नेजरित. विश्पतिः । औहोवा (साम. १.४.३९.१.) इति चतुर्थमन्द्रादिकं प्रथमम् अग्ने जरितर्वि (ग्राम. १.४.३९.२.) इति तृतीयचतुर्थादिकं द्वितीयम् । एते द्वे गोतमस्य पौरुमद्ने । अत्र ब्राह्मणम् – देवाश्च वा असुराश्च अस्पर्धन्त । ते देवा असुगणां पौरुमद्देन पुरोऽमज्जयम् । यत् पुरोऽमज्जयन् तस्मात् पौरुमद्गम् (ता. ब्रा. १२.३.१४.) इति । यद्वा आङ्गिरसस्य पुरुमद्गस्य सामनी ॥ ६ ॥

मण्डोर्जामदग्न्यस्य सामनी द्वे माण्डवे वा ॥ १.५.७ ॥

अग्ने विवस्वदुषसः (सा. ४०.) इत्यत्र सामद्वयम् । अग्ने विवाहाउ (ग्राम. १.४.४०.१.) इति मन्द्रस्वरादिकम् । अग्नेविवस्वदुषासाः (ग्राम. १.४.४०.२.) इति मन्द्रचतुर्थादिकम् । एते द्वे जामदग्न्यस्य जमदग्निपुत्रस्य मण्डोरेतन्नामकस्य ऋषेः संबन्धिनी। जमदग्निशब्दाद्यञ् । यद्वा माण्डवे जमदग्निगोत्रव्यतिरिक्तस्य मण्डोः स्वभूते भवतः ॥ ७ ॥

भरद्वाजस्य गाथम् ॥ १.५.८ ॥

त्वं नश्चित्र ऊत्या (सा. ४१.) इत्यत्रैक साम । त्वन्नाश्चित्रऊत्या (ग्राम. १.४.४१.१.) इति क्रुष्टद्वितीयादिक भवति । भरद्वाजस्य गाथं गाथेन दृष्टमित्यर्थः ॥ ८ ॥