पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः अध्यायः (५) २३

कार्तयशं च कार्तवेशं वा नार्मेधं च कार्तवेशं चैव ॥ १.५.३॥

पाहि नो अन्न एक या (सा. ३६.) इत्यस्यां सामत्रयम् । तत्र पाहि नो अग्न एकया (ग्राम. १.४.३६.१.) इति मन्द्रद्वितीयादिकं प्रथम कार्तयशनामकम् । अथवा कार्तवेशनामकम् । पाहिनो अग्नएकयाए (ग्राम. १.४. ३६.२.) इति मन्दमन्द्रादिक द्वितीय नार्मेधम् । नृमेधो नाम ऋषिः । तत्संबन्धि । तथा ब्राह्मणम् – नृमेधमाङ्गिरसं सत्रमासीनं श्वभिरभ्याह्वयन्। सोऽग्निमुपाधावत् । पाहि नो अग्न एकवेति । तं वैश्वानरः पर्युदतिष्ठत् (ता. बा. ८.८.१२.) इत्यादि । पाहि नो अग्नए (ग्राम. १:४.३६.३.) इति चतुर्थतृतीयादिकं तृतीय साम कासवेशम् [एतन्नामकमेव ॥ ३ ॥

भरद्वाजस्य पृश्निनी द्वे ॥ १.५.४ ॥

बृहद्भिरग्ने अर्चिभिः (सा. ३७.) इत्यत्र सामद्वयम् । बृहाद्धीग्ने अचिंभिर्हाउ (ग्राम. १.४.३७.१.) इति द्वितीयक्रुष्टादिकम् । बृहद्भिरग्ने अर्चिभीरे (ग्राम. १.४.३७.२.) इति मन्द्रादिकम् । एते द्वे भरद्वाजस्य पृश्निनी। एतन्नामके । तथा ब्राह्मणम्-भरद्वाजस्य पृश्न्यच्छावाकस्य साम भवति । अन्नं वै देवाः पृश्नीति वदन्ति (तां. बा. १२.१०.२४-५.) इति ॥ ४

उरोराङ्गिरसस्य साम ॥ १.५.५॥

त्वे अग्ने स्वाहुत (सा. ३८.) इत्यत्रैकं सामोत्पन्नम् । त्वेआग्नेवाहुतहाउ (ग्राम १.४.३८.१.) इति क्रुष्टद्वितीयादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य उरोः साम ॥ ५॥