पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्डः

भरद्वाजस्यौपहवौ द्वौ श्नौष्टोगवं तृतीयमग्नेर्वैश्वानरस्य यज्ञायज्ञीयम् ॥ १.५.१॥

यज्ञायज्ञा वो अग्नये (सा. ३५) इत्यस्यां चत्वारि सामान्युत्पन्नानि । तत्र यज्ञायज्ञा (ग्राम. १. ४. ३५.१) इति मन्द्रस्वरादिकं प्रथमम् । यज्ञायज्ञा (ग्राम. १. ४. ३५.२) इति चतुर्थतृतीयचतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे सामनी भरद्वाजस्य संबन्धिनी उपहवौ एतन्नामके । हृञ् स्पर्धायाम् ! ह्वः संप्रसारणं च न्यभ्युपविपु (पा. ३.३.७२) इति एतत्संयोगेन संप्रसारणम् ॥

याज्ञायाज्ञा (ग्राम. १.४.३५.३.) इति क्रुष्टद्वितीयादिकं तृतीयं साम नौष्टीगवम् । शुष्टीगुर्नाम ऋषिः तेन दृष्टम् । यज्ञायेति चतुर्थतृतीयादिक चतुर्थं साम दैश्वानराख्यस्याग्नेः स्वभूतम् । यज्ञायज्ञीयं यज्ञायज्ञापदोपेतमेतन्नामकम् । देवा चै ब्रह्म [व्यमजन्त तस्य यो रसोऽत्यरिच्यत तद् ] यज्ञायज्ञीयम् [अ] भवत् (ता. बा. ८.६.१.) इति ब्राह्मणमनुसंधेयम् ॥ १॥

अस्यैव ऋषिसंबन्धिनाम दर्शयति ----

भरद्वाजस्य वा ॥ १.५.२॥

भरद्वाजस्य ऋषेः संबन्धि यज्ञायज्ञीयं साम । यज्ञायज्ञाशब्दात् मतौ छः मूक्त साम्नोः (पा. २.२.५९.) इति छः ॥ २ ॥