पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (४) २१

                               कस्य नूनां पारीणसि (ग्राम. १.३. ३४. २) इति द्वितीयतृतीयक्रुष्टादिकं 
                               द्वितीयम् । एते द्वे अङ्गिरःपुत्रस्य गोः, गुरिति ऋषिः, तस्य संबन्धिनी सामनी 
                               भवतः ॥ १२ ॥
                                   अत्त्रैव ऋषिसंज्ञाविकल्पमाह -
                                     गोतमस्य वा मनाज्ये ॥ १३ ॥                         5 
                                    अथवा गोतमस्य स्वभूते मनाज्ये एतन्नामके भवतः ॥ १३ ॥ 
                                इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे 
                                           प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥              8