एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः अध्यायः (४) २१
कस्य नूनां पारीणसि (ग्राम. १.३. ३४. २) इति द्वितीयतृतीयक्रुष्टादिकं द्वितीयम् । एते द्वे अङ्गिरःपुत्रस्य गोः, गुरिति ऋषिः, तस्य संबन्धिनी सामनी भवतः ॥ १२ ॥
अत्त्रैव ऋषिसंज्ञाविकल्पमाह -
गोतमस्य वा मनाज्ये ॥ १३ ॥ 5
अथवा गोतमस्य स्वभूते मनाज्ये एतन्नामके भवतः ॥ १३ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे प्रथमाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥ 8