पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ आयब्राह्मणम् इहोहा इत्यादि इमाउवान्दिविष्टया ( आ. गा. ४. २. १८२) इति क्रुष्टद्वितीयादिकम् । एते द्वे अश्विनोर्वते ॥ ४ ॥

गवां व्रते द्वे ॥ ६.३.२.५॥

ते मन्वत प्रथम नाम गोनाम् (सा. ६०६) इत्यत्रैक साम । हाउ (त्रिः) गावोहाउ इत्यादि तेमन्वत (आ. गा. ४. २. १८३) इति कुष्टद्वितीया (द्वितीया ?) दिकम् । अग्निमीडे (सा. ६०५) इत्यत्रैक साम । हाउ (त्रिः) वा अग्निमीडे (आ. गा. ४. २.१८४) इति द्वितीयक्रुष्टादिकम् । एते ऋद्वयाश्रिते सामनी गवां व्रते ॥ ५ ॥

कश्यपव्रते द्वे ॥६.३.२.६॥

कश्यपस्य स्वर्विदः (सा. ३६१) इत्यत्र सामद्वयम् । हाउ (त्रिः) प्सुवन्तरा इत्यादि कश्यपस्यसुवाइदा (आ. गा. ४. २. १८५) इति मन्द्रद्वितीयादिकम् (द्वितीयादिकम् ?) । हाउ (त्रि.) ऊ इत्यादि कश्यपस्य- सुवार्विदा (आ. गा. ४.२.१८६) इति द्वितीयादिकम् । एते द्वे कश्यप- व्रते एतन्नामधेये सामनी ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि द्वितीयः खण्डः ॥ २ ॥