पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः


भरद्वाजस्य व्रतम् ॥ ६.३.२.१॥

इन्द्रो राजा जगतः (सा. ५८७) इत्यत्रैक साम । हाउ (त्रिः) । वाग्ददद इत्यादि इन्द्रोराजा (आ. गा. ४. २. १७७) इति द्वितीयादिकं भरद्वाजस्य व्रतम् ॥ १ ॥

भरद्वाजिनां व्रतम् ॥ ६.३.२.२॥

अभी नवना अद्रुहः (सा. ५५०) इत्यत्रैक साम । हाउ (त्रिः) वाजम् इत्यादि अभीनवन्त (आ. गा. ४.२. १७८) इति द्वितीयक्रुष्टादिकं भरद्वाजिनां व्रतम् ॥ २॥

यमव्रते द्वे । अङ्गिरसां वा उत्तरम् ॥ ६.३.२.३ ॥

अग्निमीडे पुरोहितम् (सा. ६०५) इत्यत्रैक साम । मनोहाउ । वयोहाउ । व!हाउ । अग्निम् । ईडाइ (आ. गा. ४. २. १७९) इति द्वितीयक्रुष्टादिकम् । इन्दं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्रैक साम । हाउ (त्रिः)। ओहा (हा?) इत्यादि इन्द्रन्नरो (आ. गा. ४. २. १८०) इति द्वितीयतृतीयादिकम् । एते ऋद्वयाश्रिते यमत्रते। अथवा उत्तरं द्वितीय साम अङ्गिरमा व्रतम् ।। ३ ॥

अश्विनोर्व्रते द्वे ॥ ६.३.२.४ ॥

इमा उ त्वां दिविष्टये (सा. ३०४) इत्यत्र सामद्वयम् । होइहा इत्यादि इमाउदिष्टया (आ. गा. ४.२.१८१) इति द्वितीयतृतीयादिकम् ।