पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ आर्षेयब्राह्मणम्

परमेष्ठिनः प्राजापत्यस्य व्रतम् ॥ ६.३.१.४ ॥

मयि वर्ची अथो यशः (सा. ६०२) इत्यत्रैक साम । हाउ (त्रिः) आनोब्रुवाइ इत्यादि मयिवर्चः (आ. गा. ४. १. १७३) इति द्वितीयादिकं प्राजापत्यस्य परमेष्ठिनो व्रतम् एतन्नामकम् ॥ ४ ॥

कृष्णस्य चाङ्गिरसस्य व्रतम् ॥ ६.३.१.५॥

सोमासोमा यत्र चक्षुः (स्तोभगानम् ) इत्यत्रैक साम । सोमा (आ. गा. ४.१.१७४) इति क्रुष्टद्वितीयादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य कृष्णस्य एतन्नामकस्यर्षेः व्रतम् ॥ ५ ॥

सोमव्रते द्वे ॥६.३.१.६॥

संत पयांसि सनु (सा. ६०३) इत्यत्र सामैकम् । ओवा (त्रिः) सन्तेपया (आ. गा. ४. १. १७५) इति क्रुष्टद्वितीयादिकम् । त्वमिमा ओषधीः सोम विश्वाः (सा. ६०४ ) इत्यत्रैकं साम । हाउ (त्रिः) हौत्रा इत्यादि त्वमिना ओरधीः सोमविश्वा (आ. गा. ४. १. १७६) इति द्वितीयादिकम् । एते ऋग्द्वयाश्रिते सोमवते एतन्नामके ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि प्रथमः खण्डः ॥ १ ॥