पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयपर्व

प्रथमः खण्डः

वाचोव्रते द्वे ॥ १ ॥

हुवे वाचाम् (स्तोभगानम्) इत्यत्र सामद्वयम् । हुवेवाचाम् (आ. गा. ४. १. १६७) इति द्वितीयादिकम् । हुवाइवाचाम् (आ. गा. ४.१. १६८) इति द्वितीयक्रुष्टादिकम् । एते द्वे वाचोव्रते एतन्नामधेये ॥१॥

शशस्य कर्षूशयस्य व्रतम् ॥ २ ॥

आ तू न इन्द्र वृत्रहन् (सा. १८०) इत्यत्रैकं साम । आतूना- इन्द्रवृत्रहन्हाउ (आ. गा. ४. १. १६९) इति द्वितीयक्रुष्टादिकम् । एतत् शशस्य कर्षूशयस्य व्रतमिति एतत्संज्ञकम् ॥ २ ॥

सत्रस्यर्धिः प्रजापतेः प्रतिष्ठा । व्याहृतिश्च ॥ ३ ॥

अगन्म ज्योतिः (स्तोभगानम् ) इत्यत्र सामैकम् । औहोवा इत्यादि अगन्मज्योतिः (आ. गा. ४.१. १७०) इति द्वितीयादिकं सत्रस्यर्धिः एतन्नामधेयम् । इममृ षु त्वमस्माकम् (सा. २८) इत्यत्र सामैकम् । इममॄषॄ (आ. गा. ४. १. १७१) इति द्वितीयादिकं प्रजापतेः प्रतिष्ठा- नामकम् | हाउ (त्रिः)। एवाहियेवाऔहोवा । ए । भूताया (आ. गा. ४.१. १७२) इत्यादि एकं साम प्रजापतेर्व्याहृतिनामधेयम् ॥ ३ ॥