पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः


अङ्गिरसां व्रते द्वे ॥६.३.३.१॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्रैक साम । हाउ (त्रिः) इन्द्राम् (आ. गा. ४. ३. १८७) इति द्वितीयक्रुष्टादिकम् । अभिन्वा शर नोनुमः (सा. २३३) इत्यत्रैक साम । हाउ (त्रिः) इत्यादि अभित्वा- शूरनोनुमोहस् (आ. गा. ४. ३ १८८) इति द्वितीयादिकम् । एते द्वे अङ्गिरसां व्रते ॥ १॥

अपां व्रते द्वे ॥६.३.३.२॥

समन्या यन्त्युपयन्त्यन्याः (सा. ६०७) इत्यत्र सामद्वयम् । हाउ(त्रिः) ऐरयत् इत्यादि समन्यायन्ति (आ. गा. ४. ३. १८९) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः) ऐरयन् ( आ. गा. ४. ३. १९०) इत्यादि द्वितीयक्रुष्टादिकम् । एते द्वे अपांत्रते एतन्नामधेये ॥ २ ॥

अहोरात्रयोर्व्रते द्वे । अह्नः पूर्वं रात्रेरुत्तरम् ॥ ६.३.३.३ ॥

उदु त्यं जातवेदसम् (सा. ३१) इत्यत्रैक साम । हाउ (त्रिः) वाप्रागन्यदनु इत्यादि उदुत्यं जातावाइदासाम् (आ. गा. ४.३. १९१) इति द्वितीयक्रुष्टादिकम् । आ प्रागद्भद्रा युवतिः (सा. ६०८) इत्यत्रैक साम । होइ इत्यादि आप्रागाद्भद्रायुवतिः (आ. गा. ४. ३. १९२) इति