पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः अध्यायः (९)


दृष्टानि सामानि । अञ्जतो व्यञ्जतः समति इति पृथक् पृथक् नामधेयानि । अत्र अञ्जते व्यञ्जते समजत इति साम्नि विद्यमानत्वात् । वा अथवा शाङ्गाणि ॥ ११ ॥

आदित्यस्य अर्कपुष्पे द्वे ॥ ५.९.१२ ॥

पवित्रं ते विततम् (सा. ५६५) इत्यत्र सामद्वयम् । पवित्रंतेविततम् (ग्राम. १६. ९. ५६५. १) इति द्वितीयक्रुष्टादिकम् । पवित्रन्तेविततम (ग्राम. १६. ९. ५६५. ३) इति द्वितीयक्रुष्टादिकम् । एते द्वे सामनी आदित्यस्य अर्कपुष्पे अन्नसमृद्धिकारणे। तथा च ब्राह्मणम् - अर्कपुष्प भवति । अन्नं वै देवा अर्क इति वदन्ति रममस्य पुष्पमिति (ता. ब्रा. १५. ३. २२-२३) इति ।। १२ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये नवमः खण्डः ॥ ९॥