पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम् १९८

यामानि चैव त्रीणि ॥ ५.९.९॥

असावि सोमो अरुषो वृषा हरिः (सा. ५६२) इत्यत्र सामत्रयम् । असाविसो (ग्राम. १६. ९. ५६२. १) इति द्वितीयक्रुष्टादिकम् । आसावीसो (ग्राम. १६. ९. ५६२. २) इति द्वितीयतृतीयादिकम् । असाविसोमोअरुषो- वृषाह (ग्राम. १६. ९. ५६२.३) इति चतुर्थमन्द्रादिकम् । एतानि त्रीणि यामानि एव । चकारो भेदार्थः ॥ ९॥

मरुतां चैव धेनु ॥ ५.९.१०॥

प्र देवमच्छा (सा. ५६३) इत्यत्रैक साम । प्रादे (ग्राम. १६.९. ५६३.१) इति चतुर्थमन्द्रादिकं मरुतां धेनुः (नु?) इत्येव । धेनुशब्द- युक्तमेत्संज्ञकम् । गाव आ न धेनवः (सा. ५६३०) इत्यत्र धेनुशब्दो विद्यते ।। १०।।

अञ्जतो व्यञ्जतः समञ्जत इति काक्षीवता(? तानि) त्रीणि सामानि । शार्ङ्गाणि वा ॥ ५.९.११ ॥

अज्जते व्यञ्जते समजते (सा. ५६४) इत्यत्र त्रीणि सामा- न्युत्पन्नानि । अञ्जताइ (ग्राम. १६. ९. ५६४. १) इति द्वितीयक्रुष्टादिक- माद्यम् । अञ्जाहो (ग्राम. १६. ९. ५६४. २) इति तृतीयद्वितीयादिकं द्वितीयम् । हावांजा (ग्राम. १६. ९. ५६४. ३) इति चतुर्थमन्द्रादिक तृतीयम् । त्रीण्येतानि काक्षीवतानि कक्षीवत्संबन्धीनि, कक्षीवानौशिजस्तेन