पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः अध्यायः (९) १९७

तन्त्रम् । आइ । इयां । प्रो अयासाइदिन्दुरिन्द्रा (ग्राम. १६. ९. ५५७. ५) इति क्रुष्टद्वितीयादिकं पञ्चमं साम यामम् ॥ ४ ॥

दासशिरसी द्वे । दाससरसे वा ॥ ५.९.५॥

धर्ता दिवः पवते कृत्व्यो रसः (सा. ५५८) इत्यत्र सामद्वयम् । धर्तादाइवा (ग्राम. १६. ०.५५८) इति द्वितीयक्रुष्टादिकम् । धर्ताऔहो- हाइ (ग्राम. १६. ९. ५५८.२) इति मन्द्रचतुर्थादिकम् । [एते] दास- शिरसी एतन्नामधेये। अथवा दाससरसनामके ॥ ५ ॥

यामानि त्रीणि ॥ ५.९.६॥

वृषा मतीनाम् (सा. ५५९) इत्यत्र सामत्रयम् । वृषामाती (ग्राम. १६. ९. ५५९. १) इति द्वितीयक्रुष्टादिकम् । वृपामतीनांपव (ग्राम. १६. ९.५५९.२) इति क्रुष्टद्वितीयादिकम् । वृषामताइ (ग्राम. २६. ९. ५५९. ३) इति क्रुष्टद्वितीयादिकम् । एतानि त्रीणि यामानि ॥ ६॥

मरुतां धेनु ॥ ५.९.७ ॥

त्रिरस्मे सप्त धेनवः (सा. ५६०) इत्यत्रैक साम । नाइः । अस्मै (ग्राम. १६. ९. ५६०.१) इति क्रुष्टद्वितीयादिक मरुतां धेनु । धेनुशब्द- युक्तमेतत्संज्ञकम् ॥ ७॥

इन्द्रस्यापामीवनी द्वे । वायोर्वाभिक्रन्द उत्तरम् ॥ ५.९.८ ॥

इन्द्राय सोम सुषुतः (सा. ५६१) इत्यत्र सामद्वयम् । इन्द्रा (ग्राम. १६. ९. ५६१.१) इति द्वितीयक्रुष्टादिकम् । इन्द्रायसोभसुपुतः पर्यो (ग्राम. १६. ९. ५६१. २) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्र- स्यापामीवनी अशमीवशब्दयुक्ते । अपामीवा भवतु (सा. ५६१') इति अपामीवशब्दस्य विद्यमानत्वात् । अथवा उत्तरं द्वितीय साम वायोर्वाभि- क्रन्दः ॥ ८॥