पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ आर्षेयब्राह्मणम्

अचोदसो नो धन्वन्त्विन्दवः (सा. ५५५) इत्यत्र षट् सामा- न्युत्पन्नानि । तत्र अचोदसो (ग्राम. १६. ९. ५५५.१) इति द्वितीयक्रुष्टा- दिकम् । आचोदसो (ग्राम. १६. ९. ५५५.२) इति क्रुष्टद्वितीयादिकम् । हाउहोवाहाइ। अचोदसोनोधा (ग्राम. १६. ९. ५५५.३) इति द्वितीय- तृतीयादिकम् । एतानि लीण्याङ्गिरसानि । अथवा एषां मध्ये प्रथमम् आदिमम् उद्वद् भार्गवम् । उत्तमम् अन्तिमं सामराजम् ॥ सामराज भवति साम्राज्यमाधिपत्यं गच्छति (ता. ब्रा १५. ३. ३५) इति ब्राह्मणमनुसंधेयम् ॥ अचोहाइ (ग्राम. १६. ९. ५५५. ४) इति मन्दचतु- र्थादिकम् । अचौहोवा (ग्राम. १६. ९. ५५५. ५) इति मन्द्रचतुर्थादिकम् । अचो। वाहाइ (ग्राम. १६. ९. ५५५. ६) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि सामराजानि एव । अथवा एषां मध्ये उत्तमम् अन्तिम सिमानां निषेधनामकम् ॥ २॥

वासिष्ठम् ॥ ५.९.३॥

एष प्रकोशे मधुमां अचिकत (सा. ५५६) इत्यत्रैक साम । एपप्रकोशे (ग्राम. १६. ९. ५५६. १) इति द्वितीयक्रुष्टादिक वासिष्ठम् ॥ ३॥

लौशे द्वे । प्रवच्च भार्गवम् । विरूपस्य च तन्त्रम् । यामं पञ्चमम् ॥ ५.९.४॥

प्रो अयासीत् (सा. ५५७) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र प्रोयासीत् (ग्राम. १६. ९. ५५७.१) इति द्वितीयतृतीयादिकम् । प्रोया- सीदिन्दुरिन्द्रस्यनिः (ग्राम.१६.९.५५७.२) इति तृतीयचतुर्थादिकम् । एते आये द्वे लौशे ।। प्रो अयासाइत (ग्राम. १६.९.५५७.३) इति द्वितीय- क्रुष्टादिकं तृतीयं प्रबद्भार्गवम् । अत्र ब्राह्मणम् -प्रात्यो भवन्ति (ता. बा. १४. ३. ४) इत्युपक्रम्य प्रवद्भार्गवं भवति । प्रवता वै देवाः स्वर्ग लोकं प्रायन्नुद्वतोदायन् (तां. बा. १४. ३. २३-२४) इति ।। प्रो अयासा इव (ग्राम. १६. ९.५५७. ४ ) इति द्वितीयक्रुष्टादिकं तुरीयं विरूपस्य च