पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः खण्डः


कावम् । वाजसनी द्वे । कावं वैनयोः पूर्वम् । वाजजिती द्वे कावं चैव ॥५.९.१॥

अभि प्रियाणि पवते (सा. ५५४) इत्यत्र षट् सामान्युत्पन्नानि । आभि- प्रीया (ग्राम. १६. ९.५५४.१) इति द्वितीयतृतीयादिकमाद्य कावं प्रजापति- देवताकम् । तथा च ब्राह्मणम्-अभिप्रियाणि पवत इति कावं प्राजापत्यं साम (ता. बा. ८. ५. १४) इति ॥ ए। अभिप्रिया । णिपवताइ (ग्राम. १६.९. ५५४.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । अभ्यौहोवाहाइप्रियाणी (ग्राम. १६.९.५५४. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । एते द्वे वाजसनी । अथवा एतयोः द्वितीयतृतीययोः पूर्वम् आदिम साम कावम् ॥ अभिप्रिया। णीपवताइ (ग्राम. १६. ९. ५५४. ४ ) इति द्वितीयक्रुष्टादिकम् । अभि- प्रिया । णीपवताइ । चनोहिताः (ग्राम. १६. ९. ५५४. ५) इति द्वितीयक्रुष्टादिकम् । एते चतुर्थपञ्चमे वाजजिती एतन्नामके शूरजयकारणे । अत्रापि वाजीजिगीवाविश्वाधनानीति हि निधनम् । अत्र वाजशब्दयुक्ते इत्यर्थः । [वाज] शब्दे[न] निधनेन जयोऽभिधीयते ॥ अभ्योवा (ग्राम. १६. ९. ५५४. ६) इति मन्द्रचतुर्थादिकम् अन्तिमं कावमेव ।। १॥

आङ्गिरसानि त्रीणि । उद्वद्वैषां भार्गवं प्रथमम् । सामराजमुत्तमम् । सामराजानि चैव त्रीणि । सिमानां वैषां निषेध उत्तमम् ॥ ५.९.२॥


.