पृष्ठम्:आर्षेयब्राह्मणम्.djvu/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः खण्डः

वसिष्ठस्य पदे द्वे । वसिष्ठस्यानुपदे द्वे । अपि वा पदं चानुपदं च । पदं चैवानुपदं चैव । पौष्कलं पञ्चमम् ॥५.१०.१॥

इन्द्रमच्छ सुता इमे (सा. ५६६) इत्यत्र पञ्चसामान्युत्पन्नानि । तत्र इन्द्रमच्छा (ग्राम. १७. १०. ५६६. १) इति मन्द्रादिकमाद्यम् । इन्द्रमच्छा । सुताइमाइ (ग्राम. १७.१०.५६६.२) इति मन्द्रादिकं द्वितीयम् । एते आये द्वे वसिष्ठस्य पदे । इन्द्रम् । इन्द्राम् (ग्राम. १७. १०.५६६. ३) इति चतुर्थमन्द्रादिकं तृतीयम् । इन्द्रमच्छसुताइमे (ग्राम. १७. १०. ५६६. ४) इति तृतीयचतुर्थादिकं चतुर्थम् । एते तृतीयतुरीये सामनी वसिष्ठम्यानुपदे एतन्नामके। अत्र विकल्प दर्शयति अपि वा अथवा प्रथमसामप्रभृतिक्रमेण पदं च अनुपदं च। पदं चैवानुपदं चैव इति योजनीयम् ॥ इन्द्रमाच्छसु (ग्राम. १७.१०. ५६६. ५) इति द्वितीय- क्रुष्टादिकं साम पञ्चमम् । एतत् पौष्कलम् एतन्नामक समृद्धिसाधनम् । तथा च ब्राह्मणम् - एतत् पौष्कलम् । एतेन वै प्रजापतिः पुष्कलान् पशूनसृजत ( तां. बा. ८. ५. ६.) इत्यादिकमनुसंधेयम् ॥ १॥

ऐषिराणि पञ्च ॥५.१०.२॥

प्रधन्वा सोम जागृविः (सा. ५६७) इत्यत्र पञ्च सामान्युत्पन्नानि । तत्र प्रधन्वासौहोइ (ग्राम. १७.१०.५६७.१) इति द्वितीयक्रुष्टादिक- माद्यम् । प्रधन्वासौहो (ग्राम. १७.१०. ५६७.२) इति द्वितीयक्रुष्टादिक