पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः


सैन्धुक्षितानि त्रीणि ॥१॥

[अग्नि वो वृधन्तम् (सा. २१) इत्यस्यामृचि सामत्रयमुत्पन्नम् । तत्र अग्निं वो वृधान्ताम् (ग्राम. १.३.२१.१.) इति मःद्रचतुर्थमन्द्रस्वरादिकम् प्रथमम् । अग्निं वाए (ग्राम. १.३.२१.२.) इति मन्द्रमन्द्रादिकम् द्वितीयम् । अग्निं वः (ग्राम. १.३.२१.३.) इति मन्द्रचतुर्थमन्द्रादिकं द्वितीयम् । तानि त्रीणि सैन्धुक्षितानि । सिन्धुक्षिन्नाम ऋषिस्तेन दृष्टानि इत्यर्थः ।। १ ॥]

अग्नेर्हरसी द्वे । इहवद्धामदेव्यं तृतीयम् ॥ १.४.२॥

[अग्निस्तिग्मेन (सा. २२.) इत्यत्र सामत्रयमुत्पन्नम् । तत्र आग्ना ओवा (ग्राम. १.३.२२.१.) इति क्रुष्टद्वितीयत्वरादिकं प्रथमम् । ओहा ओग्नी: (ग्राम. १.३.२२.२.) इति चतुर्थमन्द्रस्वरादिकं द्वितीयम् । ते द्वे अग्नेः संबन्धिनी हरसी एतन्नामधेये । अग्निस्तिग्मेन शोचिपा (ग्राम. १.३.२२.३.) इति मन्द्रचतुर्थस्वरादिकं तृतीयं साम इहद्वा पदव्यनामकम् ।। २ ॥]

यामे द्वे ॥ ३ ॥

अग्ने मृडमहाँ असि (सा. २३.) इत्यस्यामुत्पन्नम् सामद्वयम् । तत्राद्यम् [अग्नाइमृडा (ग्राम. १.३.२३.१.) इति] क्रप्तस्वरादिकम् । अग्नेमृडमहाँ असि (ग्राम. १.३.२३.२.) इति तृतीयचतुर्थस्वरादिकं द्वितीयम् । ते द्वे यामे। यमः पार्थिवोऽग्निः । तद्देवताके । साम्य देवता (पा. ४.२.२४.) इत्य ॥ ३ ॥

अग्ने रक्षोन्धे द्वे ॥४ ॥

अग्ने रक्षा णो अंहसः (सा. २४.) इत्यत्रैकम् सामोत्पन्नम् । अग्नेरक्षाणो अहसाः (ग्राम. १.३.२४.१.) इति मन्द्रद्वितीयतृतीयादिक साम ।