पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमः अध्यायः (३) १७

मन्द्रचतुर्थस्वरादिकं इन्द्रस्य स्वभूतं वारवर्न्तयनामकं साम । वारवन्तशब्दोपेतमित्यर्थः ॥ ८॥

और्वस्य वैधारयस्य सामनी द्वे । अग्नेर्वा सामुद्रे । समुद्रस्य वा वाससी ॥ ९॥

[और्वभृगुवच्छुचिम् (सा. १८) इत्यत्रामृचि सामद्वयमुत्पन्नम् । तत्र और्वभृगुवद् ओहाइ (ग्राम. १. २. १८. १) इत्यादि मन्द्रचतुर्थस्वरादिकं प्रथमम् । और्वभृगुवच्छुचिम् (ग्राम. १. २. १८. २) इत्यादि मन्द्रचतुर्थमन्द्रस्वरादिकं द्वितीयम् । ते उभे उर्वनामकस्य ऋषेः पुत्रस्य वैधारयस्य स्वभृते सामनी। वा यद्वा अग्नेः संबन्धिनी सामुद्रनामके । वा अथवा समुद्रस्य वाससी एतन्नामधेयके ॥ ९॥]

अत्रेश्वासङ्गः ॥ १० ॥

[अग्निमिन्धान (सा. १९) इत्यत्रैकं सामोत्पन्नम् । अग्निमिन्धानो मनसौ हौहोवाहाइ (ग्राम. १.२.१९१.) इत्यादि मन्द्रचतुर्थमन्द्रस्वरादिकम् अत्रेः स्वभूतम् आसङ्गनामकं साम ॥ १०॥]

प्रजापतेश्च निधनकामम् ॥ ११ ॥

[आदिन्प्रत्नस्य रेतस (सा. २०) इत्यत्रैकं सामोत्पन्नम् । आदित्प्रत्नाग्यरेतसाः (ग्राम. १.२.२०.१.) इत्यादि चतुर्थस्वरादिकं प्रजापतेः संबन्धि निधनकामनामधेयकम् ॥ ११ ॥]

इति श्रीसायणाचार्यविरचिते माधवी ये सामवेदार्थप्रकाशे आर्येयब्राह्मणे प्रथमाध्यायस्य तृतीयः खण्डः ॥ ३ ॥