पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

१६ आयब्राह्मणम्

जरा बोधा (ग्राम. १. २. १५. १) इत्यादि चतुर्थमन्द्रादिकं प्रथमम् । जग बोधो वा (ग्राम. १. २. १५. २) इत्यादि मन्द्रचतुर्थादिकं द्वितीयम् । एते द्वे अग्नेः संबन्धिनी जराबोधीयनामके । जराबोधशब्दस्तयोः साम्नोरस्तीत्यर्थे मनौ छः सूत.सान्मोः(पा. ५.२. ५९) इति मत्वर्थीयश्छप्रत्ययः ॥ ५ ॥

तत्र विकल्पेन देवतासंबन्धं दर्शयति ---

रुद्रस्य वा ॥ १.३.६ ॥

वा- शब्दः पक्षान्तरवाची । अथवा रुद्रस्य स्वभूते जराबोधीये भवतः ।। ६ ।।

मारुतं च ॥ १.३.७ ॥

प्रति त्यं चारुमध्वरम् (सा. १६) इत्यत्र एकं सामोत्पन्नम् । प्रतित्याश्चारुमध्धराम् (ग्राम. १. २. १६. १) इति द्वितीयक्रुष्टादिकं मारुतं मरुतां संबन्धि ।। ७॥

भार्गवे द्वे शौन:शेपे वेन्द्रस्य वारवन्तीयं तृतीयं सर्वाणि वा भार्गवाणि सर्वाणि वा शौनःशेपानि सर्वाणि वा वारवन्तीयानि ॥ १.३.८ ॥

अश्वं न त्वा वारवन्तम (सा. १७) इत्यस्यामृचि सामत्रयमुत्पन्नम् । तत्र आश्वा औ हो वा (ग्राम. १. २. १७. १) इति क्रुष्टद्वितीयादिकं प्रथमम् । अश्वन्नत्वावारवन्ताम् (ग्राम. १. २. १७. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते उभे भार्गवे भृगुनाम्ना ऋषिणा दृष्टे । वा यद्वा शौनःशेपे शुनःशेपेन दृष्टे । मन्त्रद्रष्टा शुनश्शेपः । सामद्रष्टा भृगुः । मन्त्रद्रष्टा सामद्रष्टेति ऋषिविकल्पः । तृतीय तु अश्वन्नत्वा औहोहाइ (ग्राम. १. २. १७. ३) इति