पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः

अग्नेः संवर्गः ॥ १ ॥

नमस्ते अग्न ओजसे (सा. ११) इत्यस्यामृचि एकं सामोत्पन्नम् । नमस्तौ होग्नाइ (ग्राम. १.२. ११.१) इत्यादि चतुर्थमन्द्रादिकं अग्नेः संवर्गनामकम् ॥ १॥

वैश्वमनसं च ॥ १ ॥

दूतं वो विश्ववेदसम् (सा. १२) इत्यस्यामृचि एकं सामोत्पन्नम् । दूतां वो विश्ववेदसाम् (ग्राम. १ . २ . १२ . १) इत्यादि मन्द्रचतुर्थतृतीयादिकं साम वैश्वमनसं विश्वमनसः संबन्धि ॥ २ ॥

श्नाभाश्नौष्टीये द्वे ॥ ३ ॥

उप त्वा जामयो गिर (सा. १३) इत्यस्यां सामद्वयं समुत्पन्नम् । तद् उप त्वाजा (ग्राम. १.२.१३. १) इत्यादि मन्द्रम्वरादिकं प्रथमम् , उप त्वाजामायो गिराः (ग्राम. १.२.१३.२) इत्यादिकं मन्द्रादिकं द्वितीयम् । एते द्वे क्रमेण श्राभाश्राष्टीयनामके भवतः ॥ ३ ॥

वैश्वामित्रं च ॥१.३.४॥

उप त्याग्ने दिवे दिव (सा. १४) इत्यत्रैकं [साम] उत्पन्नम् । उपा त्वाग्ने दिवे दिवाइ (ग्राम. १. २. १४.१) इत्यादि द्वितीयक्ष्टाक्रुदिकमेकं साम वैश्वामित्रं विश्वामित्रेण दृष्टम् ॥ ४ ॥

अग्नेर्जराबोधीये द्वे ॥ ५॥

जराबोध तद्विविड्डि (सा. १५) इत्यस्यां सामद्वयमुत्पन्नम् । तत्र