पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमः अध्यायः (४) १९

अग्ने युवा हि ये तव (सा. २५.) इत्यत्रैकसामोत्पत्तिः। अग्ने यूक्ष्वा (ग्राम. १.३.२५.१.) इति मन्द्रद्वितीयतृतीयस्वरादिक साम । ते उभे उभयाश्रिते सामनी अग्ने ग्क्षोने एतन्नामके ॥ ४ ॥

वैश्वमनसं चाग्नेश्वार्षेयम् ॥ १.४.५ ॥

नि त्वा नक्ष्य विश्पते (सा. २६.) इत्यत्रैक सामोत्पन्नम् । नित्वाहोइ (ग्राम. १.३.२६.१.) इति मन्द्रद्वितीयादिकं वैश्वमनसं विश्वमनसा दृष्टम् । चकारो वाक्यान्तरद्योतनार्थः ॥ अग्निमर्धा (सा. २७.) इत्यत्रैकं साम । अग्निर्मुदीवः ककूत (ग्राम. १.३.२७.१.) इति मन्द्रमन्द्रादिकम् अग्नेगर्षेयम् । अग्निरस्य सानो द्रष्टेत्यर्थः ॥ ५ ॥

सोमसाम च ॥ १.४.६॥

इममू षु त्वमस्माकम् (सा. २८) इत्यस्यामेकं सामोत्पन्नम् । इममूषु (ग्राम. १.३.२८.१.) इति मन्द्रादिकं सोमसामनाम ॥ ६ ॥

गौपवनं च ॥ १.४.७॥

तं त्वा गोपवनो गिरा (सा. २९.) इत्यत्रैक सामोत्पन्नम् । तंत्यागोपा (ग्राम. १.३.२९.१.) इति मन्द्रादिकमेक साम गौपवनसंज्ञकम् ॥ ७ ॥

सूर्यसामनी च ॥ १.४.८ ॥

परि वाजपतिः (सा. ३०.) इट त्रैक सामोत्पन्नम् । पय (ग्राम. १.३.३०.१.) इलि चतुर्थमन्द्रादिकमेकं साम । उदु त्यं जातवेदसम् (सा. ३१.) इत्यत्रैकं सामोत्पन्नम् । उदुत्यम (ग्राम. १.३.३१.१.) इति चतुर्थमन्द्रादिकमेकं साम। ते उभे ऋन्द्रयाश्रिते मूर्यस्य मामनी भवतः ॥ ८॥