पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः अध्यायः (४) १७५

आग्नेयं च ॥ ५.४.१२ ॥ अयं विचर्षिणिर्हितः (सा. ५०८) इत्यत्रैकं साम । आऔहौहो- वाहाइ । अयंविचा (ग्राम. १४. ४. ५०८.१) इति द्वितीयतृतीयादिकम् आग्नेयम् ।। १२॥

आयास्ये चैव ॥ ५.४.१३ ॥

प्रन इन्दो महे तु नः (मा. ५०९) इत्यत्र सामद्वयम् । प्रन इन्दोऐ (ग्राम. १४. ४. ५०९.१) इति तृतीयचतुर्थादिकम् । प्रनइन्दो (ग्राम. १४. ४. ५०९.२) इति तृतीयचतुर्थादिकम् । एते द्वे आयास्ये ।।१३।।

भारद्वाजं च ॥ ५.४.१४ ॥

अपघ्नन् पवते मृधः (सा. ५१०) इत्यत्रैकं साम । होईया ग्राम. १४. ४. ५१०. १) इत्यादि द्वितीयतृतीयादिकं भारद्वाजं भरद्वजेन दृष्टम् ॥ १४ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये पञ्चमाध्याये चतुर्थः खण्डः ।। ४ ।।