पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ आर्षेयवाह्मणम्

सूर्यसाम ॥ ५.४.६ ॥

अनु प्रत्नास आयवः (सा. ५०२) इत्यत्रैक साम । अनुप्रत्नास- आयावाः (ग्राम. १४.४.५०२.१) इति मन्द्रमन्द्रादिक सूर्यसाम च । रुचे जनन्त सूर्यम् (सा. ५०२) इति सूर्यसंबन्धात् ॥ ६ ॥

दार्ढ्यच्युतानि त्रीणि ॥ ५.४.७ ॥

अर्षा सोम धुमत्तम (सा. ५०३) इत्यत्र सामत्रयम् । अर्षाइहा (ग्राम. १४. ४. ५०३. १) इति द्वितीयक्रुष्टादिकम् । अर्षाहाउ (ग्राम. १४. ४. ५०३.२) इति चतुर्थमन्द्रादिकम् । अर्षासोमद्युम (ग्राम. १४. ४. ५०३.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि दाढयच्युतानि ॥ ७ ॥

इन्द्रस्य च वृषकम् ॥ ५.४.८ ॥

वृषा सोम धुमा५ असि (सा. ५०४) इत्यत्रैक साम। वृषासोमा (ग्राम. १४. ४. ५०४.१) इति मन्द्रादिकम् इन्द्रस्य च वृषकम् । वृष- संयुक्तमेतन्नामधेयं साम ॥ ८ ॥

ऐषं च ॥ ५.४.९॥

इषे पवस्व धारय (सा. ५०५) इत्यत्रैक साम । इषेपवा (ग्राम, १४. ४.५०५.१) इति मन्द्रादिकम् ऐषम् इषशब्दयुक्तमेतत्साम ॥ ९॥

श्यावाश्वं च ॥ ५.४.१० ॥

मन्द्रया सोम धारया (सा. ५०६) इत्यत्रैक साम । मन्द्रयासो (ग्राम. १४. ४. ५०६.१) इति मन्दादिकं यावाश्वम् ॥ १० ॥

आयास्यं च । अयासोमीयं वा । सोमसाम वा ॥ ५.४.११ ॥

अया सोम सकृत्यया (सा. ५०७) इत्यत्रैक साम । अयासोम- सुकृत्यया (ग्राम. १४. ४. ५०७.१) इति मन्द्रचतुर्थादिकम् आयास्यम् अथवा अयासोमीयम् अयासोमशब्दयुक्तम् एतत्संज्ञ साम । यद्वा सोम- साम ।। ११ ।।