पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः खण्डः


आयास्यं माण्डवं च वसिष्ठस्यापदासे द्वे । सोमसाम वैनयोरुत्तरम् । आयास्यं चैव माण्डवं चैवोद्वच्च प्राजापत्यमायास्यं चैव । कण्वरथन्तरमायास्यं चैव तिरश्चीनिधनम् । प्रजापतेः सदोविशीयम् । जमदग्नेः स्ववासिनी द्वे । वसिष्ठस्य प्लवोऽग्नेः रौरवमिन्द्रस्य यौधाजयम् । युधाजेर्वाङ्गिरसस्य युधाजीवस्य वा विश्वामित्रस्येन्द्रस्य [वा] ॥५.५.१॥

पुनानः सोम धारय (सा. ५११) इत्यत्र षोडश सामान्युत्पन्नानि । तत्र पुनानःसो (ग्राम. १४. ४. ५११.१) इति मन्द्रादिकमाद्यं साम आया- स्यम् । अवास्यो नामाङ्गिरसः । इयाईया। पुनानःसो (ग्राम. १४.५. ५११.२) इति क्रुष्टद्वितीयादिकमनन्तरं साम माण्डवम् । पुनानः सोमधारया (ग्राम. १४. ५. ५११. ३) इति मन्द्रचतुर्थादिकम् । पुनानः सोमधारया (ग्राम. १४. ५. ५११. ४) इति चतुर्थमन्द्रादिकम् । एते तृतीयचतुर्थे वसिष्ठस्य[ा]पदासे । एतत्संज्ञे। तत्र विकल्पः । अनयोरुत्तरं सोमसाम। आइपुना (ग्राम. १४.५.५११.५) इति चतुर्थमन्द्रादिकम् आयास्यमेव । अयास्यो नामाङ्गिरसः तेन दृष्टम् । तथा च ब्राह्मणम् --- आयास्ये भवत इत्युपक्रम्य अयास्यो वा आङ्गिरस इत्यादि। स तपोऽतप्यत स एते आयास्ये अपश्यद् (तां. ब्रा. ११. ८. ९-१०) इति । अत्रैवापरमायास्यं विद्यते । तदपेक्षया च ब्राह्मणे द्विवचनेनोक्तम् ॥ पुनानःसोमधारया। पोवसोवा (ग्राम. १४. ५. ५११. ६) इति मन्द्रचतुर्था-(चतुर्थमन्द्रा ?) दिकं षष्ठं साम माण्डवमेव । पुनान:- -