पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयः खण्डः

यामानि त्रीणि । देवानामृषीणां वार्षेयमुत्तमम् ॥ ५.३.१॥ उपो षु जातम् (सा. ४८७) इत्यत्र सामत्रयम् । इहाइहाउपोषु- जातमाप्तुराम् (ग्राम. १३ ३. ४८७.१) इति द्वितीयक्रुष्टा (द्वितीया !)- दिकम् । ऊपोषुजातमाप्तुराम् (ग्राम. १३. ३. ४८७.२) इति क्रुष्टद्विती- यादिकम् । उपोष्वौ होइजाताम् (ग्राम. १३. ३. ४८७. ३) इति चतुर्थ- मन्द्रादिकम् । एतानि त्रीणि सा (या?) मानि । अथवा उत्तम तृतीयं साम देवानामृषीणामायनामकम् ॥ १ ॥

अङ्कतेश्च वैरूपस्य साम ॥ ५.३.२॥

पुनानो अक्रमीदमि (सा. ४८८) इत्यत्रैक साम । पुनानोआ (ग्राम. १३. ३. ४८८. १) इति मन्द्रादिकं वैरूपस्याङ्कतेः साम ॥ २ ॥

औशने द्वे । देवानां वर्षीणां वार्षेयं पूर्वम् ॥ ५.३.३ ॥

आविशन् कलशम् (सा. ४८९) इत्यत्र सामद्वयम् । आविश- न्कलाश सुताः (ग्राम, १३. ३. ४८९.१) इति मन्द्रातिस्वारमन्द्रादिकम् । आविशन्कलशम् (ग्राम. १३. ३. ४८९.२) इति चतुर्थतृतीयादिकम् । एते द्वे औशने । अत्रैव विकल्पः । अथवा पूर्वमैतयोराद्य साम देवानामृषी- णाम् आर्षेयम् [एतन्-] नामधेयम् ॥ ३ ॥

सोमसाम च ॥५.३.४॥

असर्जि रथ्यो यथा (सा. ४९०) इत्यत्रैकं साम । असर्जिरा (ग्राम. १३. ३. ४९०.१) इति मन्द्रादिकं सोमसाम ॥ ४ ॥

कार्ष्णे द्वे ॥ ५.३.५॥

प्र यद्गावो न भृर्णयः (सा. ४९१) इत्यत्र सामद्वयम् । प्रयद्धाउ (ग्राम. १३, ३. ४९१.१) इति मन्द्र (चतुर्थ ?) मन्द्रादिकम् । प्रयद्गावोन-