पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० आर्षेयब्राह्मणम्

अत्र विकल्पापेक्षया त्रयः विकल्पाः । अथवा त्रयः संक्रीडा वा । निक्रीड- संज्ञा वा ॥ ७॥

औशनम् ॥ ५.२.८॥

परि प्रासिष्यदत्कविः (सा. ४८६) इत्यत्रैक साम । परिप्रासी (प्राम. १३. १.४८६.१) इति मन्द्रादिकम् । एतदौशनम् । उशना नाम काव्यः तेन दृष्टम् ॥ ८॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये पश्चमाध्याये द्वितीयः खण्डः ॥ २ ॥