पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः अध्यायः (२)

असूक्षत प्र वाजिनः (सा. ४८२) इत्यत्र सामत्रयम् । असृक्षाता- प्रवाजिनाः (ग्राम. १३. २.४८२.१) इति मन्द्रद्वितीयादिकम् । असृक्षता- प्रावाजिनाः (ग्राम. १३.२.४८२.२) इति मन्द्रातिस्वारमन्द्रादिकम् । अमृक्षतप्रवाजिनः (प्राम. १३.२.४८२.३) इति तृतीयचतुर्थादिकम् । एतानि त्रीणि कार्तवेशस्य बभ्रोः सामानि ॥ ४ ॥

शाम्मदे द्वे । ऐटते वा ॥ ५.२.५ ॥

पवस्व देव आयुषग् (सा. ४८३) इत्यत्र सामद्वयम् । पावस्व दे (ग्राम. १३. २. ४८३.१) इति चतुर्थमन्द्रादिकम् । पवस्वदेवऐ (ग्राम, १३. २. ४८३.२) इति तृतीयचतुर्थादिकम्। एते द्वे शाम्मदे शम्मद्वाङ्गिरसः तेन दृष्टे । शाम्मद्वा एतेनाङ्गिरसोऽजसा स्वर्ग लोकमपश्यद् (ता. ब्रा. १५. ५. ११) इत्यादि ब्राह्मणमनुसंधेयम् । अथवा एते सामनी ऐटते । इटतो नाम ऋषिः ।। ५॥

वसिष्ठस्य जनित्रे द्वे ॥ ५.२.६॥

पवमानो अजीजनत् (सा. ४८४) इत्यत्र सामद्वयम् । पावा (ग्राम. १३.४८४.१) इति चतुर्थमन्द्रादिकम् । पवमानाः (माम, १३.२. ४८३.२) इति मन्द्रादिकम् । एते द्वे वसिष्ठस्य जनित्रे पुत्रहतस्य वसिष्ठस्य पुत्रोत्पत्तिसाधने ॥ ६॥

मरुतां प्रक्रीडा वा संक्रीडा वा निक्रीडा वा त्रयः ॥ ५.२.७॥

परि स्वानास इन्दवः (सा. ४८५) इत्यत्र सामत्रयम् । पारी (ग्राम. १३.२.४८५.१) इति चतुर्थमन्द्रादिकम् । पारी । स्वानासइन्द्रवा- उवा (ग्राम. १३.२.४८५.२) इति चतुर्थमन्द्रादिकम् । पारि (ग्राम. १३.२.४८५.३) इति तुतीयमन्द्रादिकम् । एते त्रयो मरुतां प्रक्रीडाः ।