१७२ आर्षेयब्राह्मणम्
भूर्णयाः (ग्राम. १३. ३. ४९१.२) इति द्वितीयक्रुष्टादिकम् । एते द्वे काणे कृष्णशब्दयुक्ते । नन्तः कृष्णाम (सा. ४९१९) इति कृष्णशब्दो विद्यते ॥५॥
वैश्वदेवे द्वे। सोमसाम वैनयोः पूर्वम्। सूर्यसामोत्तमम्॥५.३.६॥
अपघ्नन् पवसे मृधः (सा. ४९२) इत्यत्र सामैकम् । अपघ्नौ । होइपावा (ग्राम. १३. ३. ४९२.१) इति मन्द्रचतुर्थादिकम् । अया पवस्व धारया (सा. ४९३) इत्यत्र सामैकम् । ए अयापवा (ग्राम. १३. ३. ४९३.१) इति मन्द्राद्रिकम् । एते ऋग्द्वयाश्रिते द्वे वैश्वदेवे । अत्रैव विकल्पः । अथवा एनयोः पूर्वमादिम साम सोमसाम । तथा उत्तरं द्वितीय सूर्यसाम । सर्यमरोचयः (सा. ४९३०) इति सूर्यसंबन्धो दृश्यते ॥ ६ ॥
इन्द्रस्य च वार्तघ्नम् ॥ ५.३.७ ॥
स पवस्व य आविथा (सा. ४९४) इत्यत्रैक साम । सहोइ । पवस्व (ग्राम. १३. ३. ४९४. १) इति तृतीयद्वितीयादिकम् इन्द्रस्य च वात्रघ्नं वृत्रहननसाधनम् । इन्द्रं वृत्राय हन्तवे (सा. ४९४०) इति श्रूयते ॥ ७ ॥
सोमसामानि त्रीणि ॥ ५.३.८॥
अया बीती परि स्रव (सा. ४९५) इत्यत्र सामत्रयम् । अयावीती (ग्राम. १३.३. ४९५.१) इति मन्द्रादिकम् । अयावीता (ग्राम. १३.३. ४९५.२) इति द्वितीयक्रुष्टादिकम् । अयावी (ग्राम. १३. ३. ४९५.३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि सोमसामानि ॥ ८ ॥
भारद्वाजं च ॥५.३.९॥
परि द्युक्ष सनद्रयिम् (सा. ४९६) इत्यत्रैक साम । परिद्युक्षाम (ग्राम. १३. ३.४९६.१) इति मन्द्रादिकं भारद्वाज भरद्वाजेन दृष्टम् ॥९॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥