पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

(ग्राम. १३. १. ४७३. ८) इति तृतीयद्वितीयादिकम् । एतानि चत्वारि च्यावनानि । च्यवनो दाधीचः तेन दृष्टानि ॥ ७ ॥

प्राजापत्ये द्वे ॥ ५.१.८॥

पवस्व दक्षमाधन (सा. ४७४) इत्यत्र सामद्वयम् । पवस्वदौ (ग्राम. १३. १. ४७४.१) इति चतुर्थमन्द्रादिकम् । पत्रस्वदक्षसाधनः (ग्राम. १३.१.४७४.२) इति चतुर्थमन्द्रादिकम् । एते द्वे प्राजापत्ये ॥८॥ वैदन्वतानि चत्वारि । रजेराङ्गिरसस्य पदस्तोभौ द्वौ ॥९॥ परि स्वानो गिरिष्ठाः (सा. ४७५) इत्यत्र षट् सामान्युत्पन्नानि तत्र पारि (री)। स्वानोगिरिष्ठाः (ग्राम. १३.१.४७५.१) इति चतुर्थमन्द्रादिकम् । प । युपारी (ग्राम १३. १. ४७५. २) इति चतुर्थ- मन्द्रादिकम् । पारि (ग्राम. १३. १. ४७५. ३) इति तृतीयमन्द्रादिकम् । औहोह (ग्राम. १३. १. ४७५. ४) इत्यादि द्वितीयतृतीयादिकम् । एतान्या- द्यानि चत्वारि वैदन्वतानि । विदन्वान् भार्गवः तेन दृष्टानि । तथा च ब्राह्मणम् - विदन्वान् वै भार्गव इन्द्रस्य प्रत्यहस्तं शुगार्छत् । स तपोऽप्यत । स एतानि वैदन्वतान्यपश्यत् (तां ब्रा. १३. ११.१०) इति । पर्येस्वानाः (ग्राम. १३. १. ४७५.५) इति चतुर्थमन्द्रादिकम् । पर्योहो- वाहाइ ( ग्राम. १३. १.४७५.६) इति मन्द्रचतुर्थादिकम् । एते रजेराङ्गि- रसस्य [सामनी] । रजे: पदस्तोभौ प्रतिपादं स्तोभयुक्तौ ॥ ९ ॥

और्णायवे द्वे ॥ ५.१.१०॥

परि प्रिया दिवः कविः (सा. ४७६) इत्यत्र सामद्वयम् । परिप्रियादिवःकावीः (ग्राम, १३. १.४७६.१) इति मन्द्रचतुर्थादिकम् परिप्रियादिवः कवाइः (ग्राम. १३.१. ४७६.२) इति चतुर्थमन्द्रादिकम् ।