पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः अध्यायः (१) १६५

इषोवृधीयं च । इन्द्रसाम च । वैश्वदेवे द्वे | आग्नेये द्वे । वैश्वदेवं चैव । आग्नेयं चैव ॥ ५.१.६ ॥

इन्द्रायेन्दो मरुत्वते (सा. ४७२) इत्यत्र अष्टौ सामान्युत्पन्नानि । तत्र इन्द्रायेन्दाउ (ग्राम. १३. १. ४७२.१) इति मन्द्रादिकमाद्यम् इषोवृधीयम् इषोवृधशब्दयुक्तम् । अस्य साम्न इषोवृधे इति निधनम् । आइन्द्रा (ग्राम. १३.१. ४७२. २) इति तृतीयद्वितीयादिकं द्वितीयम् इन्द्रसाम । इन्द्रायाइन्दो (ग्राम. १३. १. ४७२. ३) इति द्वितीयक्रुष्टादिकम् । इन्द्रायेन्दो। ए। मरू (ग्राम. १३.१. ४७२. ४) इति चतुर्थमन्द्रादिकम् । एत तृतीयचतुर्थे सामनी वैश्वदेवे । इन्द्रायेन्दोहाउ (ग्राम. १३. १. ४७२. ५) इति मन्द्रादिकम् । इन्द्रायेन्दोवा (ग्राम. १३. १. ४७२. ६) इति मन्द्रचतुर्थादिकम् । एते पञ्चमषष्ठे सामनी आग्नेये । इन्द्रायेन्दोमरुत्वते ओहाइ (ग्राम. १३. १. ४७२. ७) इति चतुर्थमन्द्रादिकं सप्तमं वैश्वदेवमेव । इन्द्रायेन्दोमरुत्वाताइ (ग्राम. १३. १. ४७२. ८) इति मन्द्रमन्द्रादिकम् । एतदन्तिमं साम आग्नेयमेव ॥६॥

शैशवानि चत्वारि । च्यावनानि चत्वारि ॥ ५.१.७ ॥

असाव्यꣳशुर्मदाय (सा. ४७३) इत्यत्र अष्टौ सामानि उत्पन्नानि । तत्र आसा (ग्राम. १३. १. ४७३. १) इति चतुर्थमन्द्रादिकम् । असाविया (ग्राम. १३. १. ४७३. २) इति चतुर्थमन्द्रादिकम् । असावियाओवा (ग्राम. १३. १. ४७३. ३) इति मन्द्रतृतीयादिकम् । असा । वियौवाओवा (ग्राम. १३. १. ४७३. ४) इति मन्द्रतृतीयादिकम् । इत्याद्यानि चत्वारि शैशवानि । शिशुर्वा आङ्गिरसः तेन दृष्टानि । असा । व्युहुवाहाइ (ग्राम. १३. १. ४७३. ५) इति चतुर्थमन्द्रादिकम् । असाव्यꣳशुः । औहोवाहाइ (ग्राम. १३. १. ४७३. ६) इति चतुर्थमन्द्रादिकम् । इहा । इहा । साव्यꣳशुर्मदाय (ग्राम. १३.१.४७३.७) इति तृतीयद्वितीयादिकम् । असावियꣳशुः