पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमः अध्यायः (१) १६७ एते द्वे और्णायवे । ऊर्णायुर्नाम गन्धर्वः तत्संबन्धिनी । एतत्सामाधिकृत्याख्या[न]- मुखेन ब्राह्मणे स्पष्टमभिहितम् । और्णायवं भवत्यङ्गिरसो वै सत्रमासत इत्युपक्रम्य तेषां कल्याण आङ्गिरसो ध्यायमुदव्रजत् । स ऊर्णायुं गन्धर्वमप्सरसां मध्ये प्रेङ्कायमाणमुपैत् (ता. ब्रा. १२.११.९-१०) इत्यादि ।। १०॥

इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आषे॔यब्राह्मणभाष्ये पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥