पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः खण्डः प्रजापतेश्च वाजजित् ॥ ४.१२.१॥

त्रिकद्रुकेषु महिषः (सा. ४५७) इत्यत्रैक साम । ओइत्रिक (ग्राम. १२.१२ ४५७.१) इति द्वितीयतृतीयादिकं प्रजापतेर्वाजजिन्नाम- धेयम् ॥१॥

गोराङ्गिरसस्य सामनी द्वे ॥४.१२.२॥

अयश्सहस्रमानवः (सा. ४५८) इत्यत्र सामद्वयम् । अय सहोहाइ (ग्राम. १२. १२.४५८.१) इति मन्द्रचतुर्थादिकम् । अयमहस्र- मानावाः (ग्राम. १२. १२.४५८.२) इति मन्द्रमन्द्रादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य गोनामधेयस्य ऋषेः सामनी ॥ २ ॥

प्रयस्वच्च प्राजापत्यम् ॥ ४.१२.३ ॥

एन्द्र याद्युप नः परावतः (सा. ४५९) इत्यत्रैक साम । एन्द्र- या पनाः (ग्राम. १२.१२. ४५९.१) इति चतुर्थमन्द्रादिकं प्राजापत्यं प्रयस्वत् । प्रजापतिसंबन्धि प्रयस्वच्छब्दयुक्तमेतत्संज्ञ साम । प्रयस्वन्तः सुतेष्वा (४५९) इति सान्नि विद्यमानत्वात् ॥ ३ ॥

अक्षय्यं च रेवत् ॥ ४.१२.४॥

तमिन्द्रं जोहवीमि मघवानम् (सा. ४६०) इत्यत्रैक साम । तमिन्द्रंजोहवीमिमघवानाम् (ग्राम. १२.१२. ४६०.१) इति चतुर्थमन्द्रा-