पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः अध्यायः (१२) १५७ दिकं रेवत् । रायेशब्दयुक्तमेतत् । रेशब्देन धनवाचकः शब्दोऽभिधीयते । तदक्षय्यमेतत्संज्ञं साम । मघवानमिति राये नो विश्वेति च धनवाचकशब्दो विद्यते ॥ ४ ॥

याज्ञतुरं च ॥ ४.१२.५॥

अस्तु श्रौषट् (सा. ४६१) इत्यतैकं साम । अस्तु श्रौषाट् (ग्राम. १२. १२. ४६१. १) इति मन्द्रादिकं याज्ञतुरम् । यज्ञतुरः यज्ञस्य तरिताग्निः, तत्संबन्धि । सर्वत्र चकारो वाक्यभेदद्योतनार्थः ।। ५॥

एवयामारुतस्य साम ॥४.१२.६॥

प्र वो महे मतयः (सा. ४६२ ) इत्यत्रैकं साम । प्रावोमहेमतयोयन्तुविष्णवो (ग्राम. १२. १२. ४६२. १) इति क्रुष्टद्वितीयादिकम् एवयामारुतस्य एतत्संज्ञकस्य ऋषेः स्वतन्त्रं साम । ६॥

भरद्वाजस्य विषमाणि त्रीणि । इन्वकानि वा सैन्धुक्षितानि वा ॥ ४.१२.७॥

अया रुचा हरिण्या (सा. ४६३) इत्यत्र सामत्रयमुत्पन्नम् । आया (ग्राम. १२.१२. ४६३.१) इति चतुर्थमन्द्रादिकम् । अयारुचाहरिण्या (ग्राम. १२. १२. ४६३.२) इति मन्द्रतृतीयादिकम् । अयारुचाहरिण्या (ग्राम. १२. १२. ४६३.३) इति चतुर्थतृतीयादिकम् । एतानि त्रीणि भरद्वाजस्य विषमाणि । प्रथमद्वितीययोरर्धर्च एव साम । तृतीयस्य सर्वस्या-