पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः अध्यायः (११) १५५

ऍषं च ॥ ४.११.९॥

ऊर्जा मित्रो वरुणः (सा. ४५५) इत्यत्र सामैकम् । ऊर्जा (ग्राम. १२. ११.४५५.१) इति चतुर्थमन्द्रादिकम् ऐषं च इषशब्दयुक्तमेतन्नामकम् । पीवरीमिषं कृणुही न इन्द्र (४५५०) इति विद्यमानत्वात् ॥९॥

इन्द्रस्य वैराजे द्वे । वसिष्ठस्य वा प्रजापतेर्वा विशां वा सामनी ॥ ४.११.१०॥

इन्द्रो विश्वस्य राजति (सा. ४५६) इत्यत्र सामद्वयम् । इन्द्रो विश्वस्य रा (ग्राम. १२.११.४५६.१) इति तृतीयद्वितीयादिकम् । इन्द्रा होइ (ग्राम. १२. ११.४५६.२) इति क्रुष्टद्वितीयादिकम् । एते द्वे इन्द्रस्य वैराजे । अथवा वसिष्ठस्य वैराजे । प्रजापतेर्वा विशां वा सामनी । विश्वशब्दस्य च तद्वाचकस्य विद्यमानत्वात् ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषयेब्राह्मणभाष्ये चतुर्थाध्याय एकादशः खण्डः ॥ ११ ॥