पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः अध्यायः (६) १४३

पक्थस्य सौभरस्य सामनी द्वे । पथो वा पक्थस्य वा सौभरे वा सौभ्रवे वा ॥ ४.६.१० ॥

वयमु त्वामपूर्व्य (सा. ४०८ ) इत्यत्र सामद्वयम् । वयमुत्वाम- पूर्विया (ग्राम. ११. ६. ४०८.१) इति मन्द्रद्वि(तृ?)तीयादिकम् । वयम- वामपूर्व्यस्थूरनकञ्चिद्भरन्तः (ग्राम. ११. ६. ४०८. २) इति मन्द्रचतुर्था- दिकम् । एते द्वे सौभरस्य सुभरेरपत्यस्य पक्थस्य सामनी । अथवा पथः सामनी । यद्वा अन्यगोत्रस्य पक्थस्य सामनी । एते सौभरिणा दृष्टे । वा सौभ्रवे । सुर्धर्नाम ऋषिः ॥ १० ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्थाध्याये पष्ठः खण्डः ॥ ६ ॥