पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः

यामम् ॥४.७.१॥ स्वादोरित्था विषूवतः (सा. ४०९) इत्यक साम । स्वादोरित्वा- विषू (ग्राम. ११. ७. ४०९. १) इति चतुर्थतृतीयादिकं यामम् ॥१॥

गृत्समदस्य मदौ द्वौ ॥४.७.२॥

इत्था हि सोम (सा. ४१०) इत्यत्र सामद्वयम् । इत्थाहिसो (ग्राम. ११. ७. ४१०. १) इति मन्द्रादिकम् । इत्थाहिसोमइन्मदाः (ग्राम. ११. ७. ४१०. २) इति चतुर्थमन्द्रादिकम् । एते द्वे गृत्समदस्य मदौ । एतन्नामधेये ॥ २॥

आभीके द्वे । आभीशवे द्वे । बार्हद्गिराणि त्रीणि ॥४.७.३॥

इन्द्रो मदाय वावृधे (सा. ४११.) इत्यत्र सप्त सामान्युत्पन्नानि । तत्र इन्द्रोमदायवा । वार्धाइ (ग्राम. ११. ७. ४११. १) इति द्वितीयतृतीयादिकम् । इन्द्रोमदायवावृधाइ (ग्राम. ११. ७. ४११. २) इति चतुर्थमन्द्रादिकम् । एते द्वे आभीके एतन्नामधेये। इन्द्रोमदायवावृधाइ (प्राम. ११.७.४११.३) इति चतुर्थमन्द्रादिकम् । इन्द्रोमदायवावृधेशवसेव (प्राम. ११.७. ४११. ४) इति चतुर्थमन्द्रादिकम् । एते द्वे आभीशवे । इन्द्रोमदा (ग्राम. ११. ७. ४११. ५) इति तृतीयद्वितीयादिकम् । इन्द्रोमदाय (ग्राम. ११.७. ४११. ६) इति तृतीयद्वितीयादिकम् । ओहाइ इन्द्रोमदाय (ग्राम. ११. ७. ४११. ७) इति मन्द्रतृतीयादिकम् । एतानि त्रीणि बार्हद्रािणि ॥ ३ ॥

इन्द्रस्य च स्वाराज्यम् ॥ ४.७.४॥

इन्द्र तुभ्यमिदद्रिवः (सा. ४१२) इत्यत्रैक साम । इन्द्रतुभ्यमिद- द्रिवाए (ग्राम. ११.७.४१२.१) इति मन्द्रमन्द्रादिकम् इन्द्रस्य च स्वाराज्यम् । स्वराज्यशब्दयुक्तम् । अर्चन्ननु स्वराज्यम् (४१२) इति विद्यमानत्वात् ॥४॥