पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ आर्षेय ब्राह्मणम्

मरुतां संवेशीयम् । सिन्धुषाम वा ॥ ४.६.६ ॥ गावश्चिद्धा समन्यतः (सा. ४०४) इत्यत्रैक साम । गावश्चिद्धासा- मन्यवाः (ग्राम. ११. ६. ४०४.१) इति मन्दमन्द्रादिक मरुतां च संवेशीयम् । सिन्धुषाम वा ॥ ६॥

इन्द्रस्याभरे द्वे । वसिष्ठस्य वा ॥ ४.६.७ ॥

त्वं न इन्द्र आभर (सा ४०५) इत्यत्र सामद्वयम् । त्वंनई (ग्राम. ११. ६. ४०५. १) इति चतुर्थमन्द्रादिकम् । त्वंनइन्द्रा (ग्राम. ११. ६. ४०५.२) इति चतुर्थमन्द्रादिकम् । एते द्वे इन्द्रस्याभरे । [आ]भरशब्दयुक्त । अथवा वसिष्ठस्य वा आभरे ॥ ७ ॥

वायोरैषिराणि त्रीणि । ऐषिरस्य वा प्रैयमेधस्य ॥ ४.६.८॥

अधा हीन्द्र गिर्वणः (सा. ४०६) इत्यत्र सामत्रयम् । अधाहिया (ग्राम. ११. ६. ४०६. १) इति चतुर्थमन्द्रादिकम् । अधाहीन्द्रगिर्वाणाः (ग्राम. ११. ६. ४०६. २) इति मन्दमन्द्रादिकम् । अधाहीन्द्रगिर्वणाए (ग्राम. ११. ६. ४०६. ३) इति मन्दमन्द्रादिकम् । एतानि त्रीणि वायोषि- राणि । अथवा ऐषिरस्य वा। इषिरो नाम ऋषिः । तदपत्यस्य प्रेयमेधस्य सामानि ।। ८ ।।

प्रजापतेः सीदन्तीये द्वे ॥४.६.९॥

सीदन्तस्ते वयो यथा ( सा. ४०७.) इत्यत्र सामद्वयम् । साइ । दन्तस्तेव (ग्राम. ११. ६. ४०७.१) इति द्वितीयतृतीयादिकम् । सीदन्तस्तेवयः (ग्राम. ११: ६. ४०७.२) इति तृतीयचतुर्थादिकम् । एते द्वे प्रजापतेः सीदन्तीये सीदन्तयुक्त सामनी ॥ ९॥