षष्ठः खण्डः
इन्द्रस्याभ्रातृव्यम् ॥४.६.१॥
अभ्रातृव्यो अना त्वम् (सा. ३९९) इत्यत्रैकं साम । अभ्रातृव्यो अनातुवाम् (ग्राम. १०. ६. ३९९. १) इति चतुर्थमन्द्रादिकम् इन्द्रस्या भ्रातृव्यम् । [अभ्रातृशब्दयुक्तमेतन्नामधेयम् ॥ १॥
शार्करे द्वे ॥४.६.२॥
यो न इदमिदं पुरा (सा. ४००) इत्यत्र सामद्वयम् । योनोहउ (ग्राम. १०.६. ४००. १) इति चतुर्थमन्द्रादिकम् । योनाइदमिदंपुरा (ग्राम. १०. ६. ४००. २) इति मन्द्रचतुर्था(तृतीया )दिकम् । एते द्वे शार्करे । शर्करो नाम ऋषिः तेन दृष्टे । स शर्करं शिशुमारमृषिमुपेत्याब्रवीत्। स्तुहि मा इत्यादि । स एतत्सामापश्यत् (तां.ब्रा.१४.५.१५) इत्यादि ब्राह्मणमनुसंधेयम् ॥२॥
बृहत्कम् ॥ ४.६.३ ॥
आ गन्ता मा रिषण्यत (सा. ४०१) इत्यत्रैकं साम । आगन्ता (ग्राम. ११. ६. ४०१. १) इति चतुर्थमन्द्रादिकं बृहत्कम् । एतन्नामधेयं साम । [तथा च ब्राह्मणम् -] बृहत्कं भवति । सामार्षेयेण (तां. ब्रा. १२. ११. १३-१४) इति ॥ ३ ॥
सौयवसानि त्रीणि ॥ ४.६.४॥
आ याह्ययमिन्दवे (सा. ४०२) इत्यत्र सामत्रयम् । आयाही (ग्राम. ११. ६. ४०२. १) इति चतुर्थमन्द्रादिकम् । आयाहिया (ग्राम. ११. ६. ४०२. २) इति चतुर्थमन्द्रादिकम् । आयाह्ययमिन्दावाइ (ग्राम. ११. ६. ४०२. ३) इति मन्द्रादिकम् । एतानि त्रीणि सौयवसानि ॥ ४ ॥
मरुतां च धेनु ॥ ४.६.५॥
त्वया ह स्विद्युजा (सा. ४०३) इत्यत्रैकं साम । त्वयाहस्वीत् (ग्राम. ११. ६. ४०३. १) इति मन्द्रादिकं मरुतां धेनु एतत्संज्ञम् ॥ ५ ॥