पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयब्राह्मणम्

तांते (ग्राम. १०. ४. ३८३. २) इति तृतीयचतुर्थादिकम् । तंतेमदंगृणी- मसीए (ग्राम. १०. ४. ३८३. ३) इति मन्दमन्द्रादिकम् । तंतेमदांगृणी- मसाइ (ग्राम. १०.४.३८३.४) इति चतुर्थमन्द्रादिकम् । एतानि वत्वारि हारिवर्णानि हरिवणेन दृष्टानि । हरिवों वा एतत्पशुकामः सामापश्यत् (ता. ब्रा. ८. ९. ४) इत्यादि ब्राह्मणमनुसंधेयम् ॥ ३ ॥

वैतानि चत्वारि ॥ ४.४.४ ॥

यत्सोममिन्द्र विष्णवि (सा. ३८४ ) इत्यत्र चत्वारि सामान्युत्पन्नानि । यत्सोममिन्द्रविष्णावी (ग्राम. १०.४.३८४.१) इति मन्द्रचतुर्थादिकम् । यत्सोममाइन्द्रविष्णवाइ (ग्राम. १०. ४. ३८४.२) इति चतुर्थमन्द्रादिकम् । हाओहायत्सोममा (ग्राम. १०.४. ३८४.३) इति मन्द्रादिकम् । औहोइ । औहोइवा । यसोममीन्द्राविष्णा (प्ण ?) बी (वाइ ?) (ग्राम. १०. ४. ३८४. ४) इति तृतीयद्वितीयादिकम् । एतानि चत्वारि नैतानि । तो नाम ऋषिः ॥ ४ ॥

सुराधसश्च प्राधसश्चाहिरसयोस्त्रीणि सामानि । मारुतं वैषां तृतीयम् ॥ ४.४.५॥

मधोमदिन्तरम् (सा. ३८५) इत्यत्र सामद्वयम् । एदुमधोः (ग्राम. १०.४.३८५.१) इति तृतीयचतुर्थादिकम् । एदुमघौहोर्मदिन्तराम् (ग्राम. १०. ४. ३८५. २) इति चतुर्थमन्द्रादिकम् । एन्दुमिन्द्राय सिञ्चत (सा. ३८६) इत्यत्रैक साम। एंदुमि (ग्राम. १०. ४. ३८६.१) इति तृतीयमन्द्रादिकम् । एवं ऋद्वयाश्रितानि त्रीणि सामानि । आङ्गिर-योः सहापेक्षया द्विवचनम् । सुराधसश्च प्रराधसश्च एतत्संज्ञकयोः त्रीणि सामानि । अथवा एषां मध्ये तृतीयं द्वितीयस्यामृच्युत्पन्न साम मारुतम् ॥५॥