पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३७ चतुर्थः अध्यायः (४)

वैश्वमनसम् ॥ ६॥

एतोन्विन्द्र स्तवाम (सा. ३८७) इत्यत्र सामैकम् । एतोन्विन्द्र स्तवामा (ग्राम. १०. ४. ३८७.१) इति मन्द्रमन्द्रादिकं वैश्वमनसम् । विश्वमना नाम ऋषिः ॥ ६॥

सौमित्राणि त्रीणि ॥ ७॥

इन्द्राय साम गायत (सा. ३८८) इत्यत्र त्रीणि सामान्युत्पन्नानि । इन्द्रायसा (ग्राम. १०.४.३८८.१) इति मन्द्रादिकम् । इन्द्रा । यसाम (ग्राम. १०. ४. ३८८.२) इति तृतीयद्वितीयादिकम् । औहौहोइ । औहोइ । ओवा । इन्द्रायसामगायत (ग्राम. १०.४.३८८.३) इति द्वितीयक्रुष्टादिकम् । एतानि त्रीणि सौमित्राणि ॥ ७ ॥

त्रैककुभानि त्रीणि ॥ ८॥

य एक इद्विदयते (सा. ३८९) इत्यत्र सामत्रयमुत्पन्नम् । यएक- इदिहाहाउ (ग्राम. १०.४.३८९.१) इति मन्द्रादिकम् । याए । काईत । चिदयताइ (ग्राम. १०. ४.३८९.२) इति तृतीयद्वितीयादिकम् । यएकइ- द्विदायातइ (ग्राम. १०. ४.३८९.३) इति मन्दमन्द्रादिकम् । एतानि त्रैककुभानि ॥ ८॥

औक्ष्णोनियानानि त्रीणि । औक्ष्णोरन्घ्राणि वा ॥ ९॥

सखाय आ शिषामहे (सा. ३९०)इत्यत्र सामत्रयम् । सखाय- आहाउ (ग्राम. १०.४.३९०.१) इति मन्द्रादिकम् । सखायआशिपाम ।