पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्थः खण्डः

इन्द्रस्य क्रोशानुक्रोशे द्वे । कौत्सं तृतीयम् । वसिष्ठस्य कोशानि ॥४.४.१॥

इन्द्र सुतेषु (सा. ३८१) इत्यत्र सामत्रयम् । तत्र इन्द्रा (ग्राम, १०. ४. ३८१.१) इति मन्द्रचतुर्थादिकम् । इन्द्राहोइ (ग्राम. १०. ४. ३८१.२) इति तृतीयद्वितीयादिकम् । एते द्वे इन्द्रस्य क्रोशानुक्रोशे । आद्य क्रोशनामकम् । तथा च ब्राह्मणम् क्रोशं भवत्येतेन वा इन्द्र इन्द्रकोशे विश्वामित्रजमदग्नी इमा गाव इत्याक्रोशत् (ता. बा. १३. ५. १४-१५) इति । इन्द्रसुतेषुसोमेषु (ग्राम. १०. ४. ३८१. ३) इति मन्द्र- चतुर्थादिकं तृतीय साम कौत्सम् । अथवा वसिष्ठस्य क्रोशसंज्ञकानि त्रीणि ॥१॥

दैवोदासे द्वे । प्रहितोः संयोजने द्वे । ओकोनिधनं वैनयोः पूर्वम् ॥ ४.४.२॥

तमु अभि प्र गायत (सा. ३८२) इत्यत्र चत्वारि सामान्युत्पन्नानि । हाउतभूवभी (ग्राम. १०. ४. ३८२.१) इति मन्द्रादिकम् । तामूवभी (प्राम. १०. ४. ३८२. २) इति तृतीयचतुर्थादिकम् । एते आये द्वे देवो- दासे । तमूअभिप्रगायता (ग्राम. १०. ४. ३८२. ३) इति मन्द्रचतुर्था- दिकम् । तमूअभिप्रगायतेदाम् (ग्राम. १०. ४. ३८२. ४) इति मन्द्र- चतुर्थादिकम् । एते द्वे प्रहितोः संयोजने। अथवा एनयोः पूर्वम् ओको- निधनम् । अस्य निधनमोकाः इति हि ॥ २ ॥

हारिवर्णानि चत्वारि ॥ ४.४.३॥

तं ते मदं गृणीमसि (सा. ३८३) इत्यत्र चत्वारि सामानि उत्पन्नानि । तंतेमेदम् (ग्राम. १०. ४. ३८३.१) इति चतुर्थमन्द्रादिकम् ।