पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आर्षेयग्राह्मणम् १२४

नामे (ग्राम. ९. १. ३५५.१) इति मन्द्रमन्द्रादिकं प्रजापतेश्च मधुश्चि- निधनम् । अस्य सानो मधुश्चुता इति निधनम् ॥ ४ ॥

उषसश्च साम ॥ ४.१.५॥

यदी वहन्त्याशवः (सा. ३५६) इत्यत्रैक साम । यदीवहन्त्या- शवः (ग्राम. ९.१.३५६.१) इति चतुर्थमन्द्रादिकम् उषसः साम ॥ ५॥

भारद्वाजं च ॥ ४.१.६॥

त्यमु वो अप्रहणम् (सा. ३५७) इत्यत्रैक साम । त्यमुव(वो!) (ग्राम. ९. १. ३५७.१) इति तृतीयचतुर्थादिक भारद्वाजम् ॥ ६ ॥

अग्नेश्च दधिक्रम् ॥ ४.१.७ ॥

दधिक्राव्ण (सा. ३५८) इत्यत्रैक साम । ओहाइ । दधिक्राव्णो- अकारिषम् (ग्राम. ९. १. ३५८.१) इति चतुर्थमन्द्रादिकम् अग्नेश्च दधिक्रम् ॥ ७॥

मारुतं च । माधुच्छन्दसं वा ॥ ४.१.८ ॥

पुगं भिन्दुर्युवा कविः (सा. ३५९) इत्यतैकं साम । पुराभिन्दु- युवाकवीः (ग्राम. ९. १. ३५९.१) इति मन्द्रतृतीयादिकं मारुतम् । मारुतं भवति मासा वै रश्मयो मरुतो वै रश्मयो मरुतो वै देवानां भूयिष्ठा [भूयिष्ठा अ]साम (तां. ब्रा. १४. १२. ८-९) इत्यादि ब्राक्षण- मनुसंधेयम् । अथवा माधुच्छन्दसं मधुच्छन्दा नाम ऋषिः तेन दृष्टम् ॥८॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये चतुर्थाध्याये प्रथमः खण्डः ॥ १॥