पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः खण्डः

वामदेव्यं च ॥४.२.१॥

प्रप्र वस्त्रिष्टुभम (सा. ३६०) इत्यत्रैक साम । प्रप्रवस्त्रिष्टुभमि- पमोहाओहाए ( ग्राम. ९.२. ३६०.१) इति मन्द्रादिमन्द्रादिकं वामदेव्यम् । वामदेवेन दृष्टम् ॥ १॥

काश्यपं चाप्सरसं वा ॥४.२.२॥

कश्यपस्य स्वर्विदः (सा. ३६१) इत्यत्रैक साम । कश्यपस्या --- विदाए (ग्राम. ९. २. २६१.१) इति मन्द्रमन्द्रादिकं काश्यप कश्यप- शब्दयुक्तम् । अथवा आप्सरसम् एतन्नामधेयम् ॥ २ ॥

प्रैयमेधं च ॥ ४.२.३॥

अर्चत प्रार्चता (सा. ३६२) इत्यत्रैक साम । अर्चतप्रार्चतानाराः - (प्राम. ९.२. ३६२.१) इति द्वितीयतृतीयादिकं प्रेयमेधम् । प्रियमेधो नाम ऋषिः ॥ ३॥

बार्हदुक्थं च ॥ ४.२.४॥

उकथमिन्द्राय शस्यम् (सा. ३६३) इत्यत्रैक साम । उक्थ- मिन्द्रा (ग्राम. ९. २. ३६३. १) इति मन्द्रादिकं बाहदुक्थम् ॥ ४ ॥

अग्नेर्वैश्वानरस्य सामनी द्वे ॥४.२.५॥

विश्वानरस्य वस्पतिम् (सा. ३६४) इत्यत्र सामद्वयम् । विश्वा- नरा (ग्राम. ९. २. ३६४.१) इति मन्द्रादिकम् । विश्वानरस्यवौ (ग्राम. ९.२. ३६४. २) इति तृतीयद्वितीयादिकम् । एते वैश्वानरस्य अग्नेः सामनी ॥ ५॥