पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ आर्षेय्रााह्मणम्


इन्द्रस्य शुद्धाशुद्धीये द्वे । वसिष्ठस्य वा ॥ ३.१२.९ ॥

एतो न्विन्द्रं स्तवाम (सा. ३५०) इत्यत्र सामद्वयम् । एतोन्वि- न्द्रस्तवामा (ग्राम. ९. १२. ३५०.१) इति चतुर्थमन्द्रादिकमाद्यम् । एतो- न्विन्द्रशस्तवामा (ग्राम. ९.१२. ३५०. २) इति मन्द्रमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य शुद्धाशुद्धीये। अपरिशुद्धस्य शुद्धयुत्पादके । तथा च ब्राह्मणम्- इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् । तमश्लीला वागभ्यवदत् । सोऽशुद्धोऽमन्यत । स एतच्छुद्धाशुद्धीयमपश्यत् । तेनाशुद्धथच्छुद्धथति (ता. बा. १४. ११. २९) इति प्रत्येकमविवक्षयैव (क?)वचनम् । अथवा वसिष्ठस्य शुद्धाशुद्धीये ॥ ९॥

गौतमस्य रयिष्ठे द्वे ॥ ३.१२.१० ॥

यो रयि रयिन्तमो (सा. ३५१) इत्यत्र सामद्वयम् । योगयिंवोरयाहाउ (ग्राम. ९. १२. ३५१. १) इति मन्द्रादिकम् । योरयिंवोरयि (ग्राम. ९. १२. ३५१.२) इति तृतीयचतुर्थादिकम् । एते द्वे गौतमस्य रयिष्ठे एतन्नामके || १०॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवदार्थप्रकाशे आपैयब्राह्मणभाष्ये तृतीयाध्याय द्वादशः खण्डः ।। १२ ।।

।। तृतीयाध्यायः समाप्तः ।। ३ ।।