पृष्ठम्:आर्षेयब्राह्मणम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२५ तृतीयः अध्यायः (१२)


तिरश्चाङ्गिरसस्य सामनी द्वे । तैरश्चे वा ॥३.१२.५॥

श्रुधी हवं तिरश्च्या (सा. ३४६) इत्यत्र सामद्वयम् । श्रुधी (ग्राम. ९. १२. ३४६. १) इति मन्द्रचतुर्थादिकम् , श्रुधीहावंतिरश्च्या (ग्राम. ९. १२. ३४६. २) इति मन्द्रद्वितीयादिकं तिरश्चाङ्गिरस्य सामनी । यद्वा तैरश्चे एतन्नामधेये । तैरश्चं भवति । अङ्गिरसः स्वर्ग लोकं यन्तो रक्षांस्यन्व- सचन्त तान्येतेन तिरश्वाङ्गिरसस्तिर्यङ् पर्यवैद्यत्तिर्यक पर्यवेत्तस्मात् तैरश्चम् (ता. ब्रा. १२. ६. ११-१२) इति ब्राह्मणमनुसंधेयम् ॥ ५॥

वैश्वामित्रं च ॥ ३.१२.६॥

असावि सोम इन्द्र ते (सा. ३४७) इत्यत्रैक साम । असावि- सोमइन्द्रते (ग्राम. ९. १२. ३४७. १) इति तृतीयचतुर्थादिक वैश्वा- मित्रम् ।। ६ ॥

काण्वे च ॥ ३.१२.७॥

एन्द्र याहि (सा. ३४८) इत्यत्र सामद्वयम् । एन्द्रायाहिहरिभाइः (ग्राम. ९. १२.३४८.१) इति मन्द्रादिकं प्रथमम् । एन्द्रयाहिहरिभिः उहवाहाइ (ग्राम. ९. १२. ३४८. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे काण्वे ॥ ७॥

वैश्वामित्रं चैव ॥ ३.१२.८॥

आ त्वा गिरी स्थीरिव (सा. ३४९) इत्यत्रैक साम | आत्वा- गाइरोरा (र?) थीरिवा (ग्राम. ९. १२. ३४९.१) इति मन्द्रद्वितीयादिक वैश्वामित्रमेव ॥ ८॥